Monthly Archives: September 2017
SOUTH ZONE MEETING
BMS- MARCH TO PARLIAMENT 17-11-2017
PSRKS addressed Various grievances and wrong posting to harass staff of NF Rly
PRKP-Stike notice for Hunger Strike to Resolve the Grievances of Track Machine Organisation of Western Railway
भारतं वन्दे
वन्दे भारतम्
वन्दे भारतम्
भारतं वन्देऽ
नारतम्
भारतं वन्दे
वन्दे भारतम्
वन्दे भारतम्
सितहिमगिरिमुकुटं खलु धवलम्,
जलनिधि-जल-पावित-पद-युगलम्।
कुवलयवनमिव विमलं गगनम्,
प्रवहति दिशि वारि सुविमलम्।
कोटि-कोटि-
जनतानुपालकं
भारतं वन्दे
भारतं वन्देऽ
नारतम्
वन्दे भारतम्
वन्दे भारतम्॥ १॥
सुललित-पद-बहुला बहुभाषा:,
बहुविध-नव-कुसुमानां हासा:।
दिनकर-शशि-शुभ-कान्तिविकास:,
प्रतिदिननवविज्ञानविलास:।
धरणीतले
कुटुम्बधारकं
भारतं वन्देऽ
नारतम्
भारतं वन्दे
वन्दे भारतम्॥ २॥
राष्ट्ररक्षणम्
रक्षणं-रक्षणं राष्ट्ररक्षणम्।
रक्षणं-रक्षणं देशरक्षणम्॥
रक्षणम् …ऽऽऽऽ राष्ट्ररक्षणम्-2
गणतन्त्रमस्माकमेतद् भारतं प्रचक्षते,
देवतात्मास्वरूपं महद् रूपे दृश्यते।
युक्त आर्यमर्यादया देशेषु य: पूज्यते,
नौमि भारतभू धरां वसुन्धरा विराजते। (१)
वन्दनीय: पूजनीयो जगत्यस्मिन् सर्वदा,
अस्ति-अस्य भूमिर्वसुप्रदायिनी सदा।
सभ्यताया: सूर्योदय: नासीत् संसारे ,यदा,
विश्वगुरुगौरवेण यो ज्ञायते तदा॥ (२)
यत्र हरिणा कृष्णेन गीताज्ञानामृतं दत्तम्,
रामचन्द्रप्रभुणा लोकधर्म तत्र स्थापितम्।
पूजायोग्या नियमा: सन्ति अस्या: संस्कृते.,
धारणीयो माननीयो धर्मं: तत्र वर्तते॥ (३)
ज्ञानस्य प्रकाशो भवेत् तमो अपसर:,
वर्धतां वैभवमस्य कीर्ति: सुकीतिश्च।
भवगुरु स्वर्णविहंग: अयं भवेत् पुन:,
एहि-एहि अस्य पुनस्संगठनं कुर्म:। (४)
रक्षणम् ऽऽऽऽ राष्ट्ररक्षणम्
रक्षणम् ऽऽऽऽ देशरक्षणम्
जयतु जननी
जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्।
जयतु जम्बू-द्वीपमखिलं सुन्दरं धामामृतम्।
पुण्यभुवनं भारतम्॥
धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती।
रत्नगर्भा कामधेनु: कल्पवल्ली भास्वती।
विन्ध्य-भूषा सिन्धु-रशना शिखा-हिमगिरि शर्मदा।
रम्य-गंगा-यमुनया सह महानद्यथ नर्मदा।
कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालंकृतम्॥ जयतु…॥
आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता।
एक-मातु: सुता: सर्वे भाति दिव्या भव्यता।
यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता।
तथाप्येका ह्याद्वितीया राजते जातीयता।
ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम्॥ जयतु…॥
आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम्।
योग-भोग-त्याग-सेवा-शान्ति-सुगुणै: पुष्कलम्।
यत् त्रिरंग ध्वजं विदधत् वर्षमार्षं विजयते।
सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते।
मानवानां-प्रेमगीतं विबुध-हृदये झंकृतम्॥ जयतु…॥
मृदपि च चन्दनम्
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।
यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥
हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराज:
धेनुर्माता परमशिवा॥
नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा॥ ॥ मृदपि॥
भाग्यविधायि निजार्जितकर्म
यत्र श्रम: श्रियमर्जयति।
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी
गंगाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी॥ ॥ मृदपि॥
यत्र हि नैव स्वदेहविमोह:
युद्धरतानां वीराणाम्।
यत्र हि कृषक: कार्यरत: सन्
पश्यति जीवनसाफल्यम्
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा॥ ॥ मृदपि॥